||Sundarakanda ||

|| Sarga 62||( Slokas in Devanagari )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुन्दरकांड.
अथ द्विषष्टितमस्सर्गः॥

तानुवाच हरिश्रेष्ठो हनुमान् वानरर्षभः।
अव्यग्रमनसो यूयं मधुसेवत वानराः॥1||
अहमावारयिष्यामि युष्माकं परिपंथिनः।

श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः॥2||
प्रत्युवाच प्रसन्नात्मा पिबंतु हरयो मधु।

अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया॥3||
अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम्।

अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः॥4||
साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन्।

पूजयित्वाऽङ्गदं सर्वे वानरा वानरर्षभम्॥5||
जग्मुर्मधुवनं यत्र नदीवेग इव द्रुतम्।

ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः॥6||
अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीं।
पपुस्सर्वे मधु तदा रसवत्फल माददुः॥7||

उत्पत्य च ततः सर्वे वनपालान् समागतान्।
ताडयंतिस्म शतशस्सक्तान् मधुवने तदा॥8||

मधूणि द्रोणमात्राणि बाहुभिः परिगृह्य ते।
पिबंति सहिताः सर्वे निघ्नंति स्म तथा परे॥9||

केचित्पीत्वाऽपविध्यंति मधूनि मधुपिंगळाः।
मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः॥10||

अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः।
अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते॥11||

उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत्।
क्षिपंति च तदान्योऽन्यं स्खलंति च तथाऽपरे॥12||

केचित् क्ष्वेळां प्रकुर्वंति केचित्कूजंति हृष्टवत्।
हरयो मधुना मत्तः केचित् सुप्ता महीतले॥13||

कृत्वा केचित् दसंत्यन्ये केचित् कुर्वंति चेतरत्
कृत्वा केचित् वदंत्यन्ये केचित् बुध्यंति चेतरत्॥14||

येऽप्यत्र मधुपालास्स्युः प्रेष्या दधिमुखस्य तु।
तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः॥15||

जानुभिस्तु प्रकृष्टाश्च देवमार्गं प्रदर्शिताः।
अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः॥16||

हनुमता दत्तवरैर्हतं मधुवनं बलात्।
वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः॥17||

ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः।
हतं मधुवनं श्रुत्वा सांत्वयामास तान् हरीन्॥18||

इहागच्छत गच्छामो वानरान् बलदर्पितान्।
बलेन वारयिष्यामो मधु भक्षयतो वयम्॥ 19||

श्रुत्वा दधिमुख स्येदं वचनं वानरर्षभाः।
पुनर्वीरा मधुवनं तेनैव सहसा युयुः॥20||

मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम्।
समभ्यधावत् वेगेन ते च सर्वे प्लवंगमाः॥21||

ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः।
गृहीत्वाभ्यगमन् क्रुद्धा यत्र ते कपिकुंजराः॥22||

ते स्वामिवचनं वीराहृदये ष्यवसज्य तत्।
त्वरया ह्यभ्यधावंत सालताल शिलायुधाः॥23||

वृक्षस्थांच तलस्थांच वानरान् बलदर्पितान्।
अभ्यक्रामं स्ततो वीराः पालास्तत्र सहस्रशः॥24||

अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुंगवाः।
अभ्यधावंत वेगेन हनुमत्प्रमुखाः तदा॥25||

तं सवृक्षं महाबाहुं अपतंतं महाबलम्।
आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः॥26||

मदांधश्चन वेदैन मार्यकोऽयं ममेति सः।
अथैनं निष्पिपेषाशु वेगेवत् वसुधातले॥27||

स भग्न बाहूरुभुजो विह्वलः शोणितोक्षितः।
मुमोह सहसा वीरो मुहूर्तं कपिकुंजरः॥28||

स समाश्वास सहसा संक्रुद्धो राजमातुलः।
वानरान् वारयामास दंडेन मधुमोहितान्॥29||

स कथंचित् विमुक्तः तैः वानरैर्वानरर्षभः।
उवाचैकांत माश्रित्य भृत्यान् स्वान् समुपागतान् ॥30||

एते तिष्ठंतु गच्छामो भर्तानो यत्र वानरः।
सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति॥31||

सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिवे।
अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान्॥32||

इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः।
पितृपैतामहं दिव्यं देवैरपि दुरासदम्॥33||

स वानरन् इमान् सर्वान् मधुलुभ्धान् गतायुषः।
घातयिष्यंति दंडेन सुग्रीवः ससुहृज्जनान्॥34||

वध्या ह्येते दुरात्मनो नृपज्ञा परिभाविनः।
अमर्ष प्रभवो रोषः सफलो नो भविष्यति॥35||

एवमुक्त्वा दधिमुको वनपालान् महाबलः।
जगाम सहसोत्पत्य वनपालैः समन्वितः॥36||

निमिषांतरमात्रेण सहि प्राप्तो वनालयः।
सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः॥37||

रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीव मेव च।
समप्रतिष्ठां जगतीं आकाशान् निपपात ह॥38||

सन्निपत्य महावीर्यः सर्वैः तैः परिवारितः।
हरिर्दधिमुखः पालैः पालानां परमेश्वरः॥39||

स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिं।
सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत्॥40||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकांडे द्विषष्टितमस्सर्गः ॥

|| Om tat sat ||